Setup Menus in Admin Panel

पाठः १५  –  व्याकरणविभागः

१. विसर्गसन्धिः

 

विसर्गस्य स्वरे, मृदुव्यञ्जने च परे विसर्गस्य व्यत्ययः भवति । स च व्यत्ययः विसर्गसन्धिरिति कथ्यते ।
विसर्गस्य चतुर्धा व्यत्ययः भवति । यथा –
१. उकारः
२. रेफः
३. लोपः
४. सकार
व्यञ्जनवर्णः द्विविधः –

१. कर्कशव्यञ्जनम्
२. मृदुव्यञ्जनम्

प्रत्येकवर्गस्य आद्ययोः द्वयोः वर्णयोः, श, ष, सानां च कर्कशव्यञ्जनमिति नाम ।
प्रत्येकवर्गस्य अन्तिमानां त्रयाणां वर्णानां, य, र, ल, व, ह वर्णानां च मृदुव्यञ्जनमिति नाम ।

उकारादेशः

अकारात् परस्य विसर्गस्य उकारादेशः भवति, अकारे मृदुव्यञ्जने च परे । ततः गुणसन्धिः भवति । (परत्र अकारः अस्ति चेत् पूर्वरूपसन्धिरपि भवति )
उदा :
राम + अपि = राम + उ + अपि = रामो + अपि – गुणसन्धिः रामोऽपि – पूर्वरूपसन्धिः
गजः + याति = गज + उ + याति = गजो याति

विशेषनियमः : रेफान्त-अव्ययात् परस्य विसर्गस्य स्थाने उकारादेशः न भवति । रेफ एव तिष्ठति ।
उदा :
अन्तः + गतः = अन्तर्गतः
पुनः + अयम् = पुनरयम्
स्वः + लोकः = स्वर्लोकः
प्रातः + नमामि = प्रातर्नमामि

विशेषनियमः : सः , एषः इत्येतयोः विसर्गस्य मृदुव्यञ्जने परे उकारादेशो न भवति, किन्तु विसर्गस्य लोपो भवति ।
उदा :
सः + गतः = स गतः
एषः + याति = एष याति

रेफादेशः

अकारम् आकारम् च वर्जयित्वा अवशिष्टेभ्यः स्वरेभ्यः परस्य विसर्गस्य स्थाने रेफादेशो भवति, स्वरेषु मृदुव्यञ्जनेषु परेषु ।
उदा :

लोपः

१. ह्रस्वात् अकारात् परस्य विसर्गस्य, अकारं वर्जयित्वा अन्येषु स्वरेषु परेषु लोपो भवति
उदा :
बालः + इति = बाल इति

२. आकारात् परस्य विसर्गस्य स्वरे मृदुव्यञ्जने च परे लोपो भवति ।
उदा :
ताः + गच्छन्ति = ता गच्छन्ति
बालकाः + अद्य = बालका अद्य

३. सः एषः इत्येतयोः पदयोः विसर्गस्य अकारं वर्जयित्वा अन्येषु वर्णेषु परेषु लोपो भवति ।
उदा :
सः + एवम् = स एवम्
एषः + गतः = एष गतः
विसर्गलोपे कृते स्वरसन्धयः न भवन्ति ।

सकारादेशः

यदा विसर्गात् क, ख, प, फ एतान् वर्जयित्वा अवशिष्टानि कर्कशव्यञ्जनानि पराणि भवन्ति तदा विसर्गस्य स्थाने सकारादेशः भवति ।
उदा :
गौः + तत्र = गौस्तत्र
बालः + थकारम् + बालस्थकारम्
मुनिः + सः = मुनिस्सह

यदा विसर्गात् क, ख, प, फ एतान् वर्जयित्वा अवशिष्टानि कर्कशव्यञ्जनानि पराणि भवन्ति तदा विसर्गस्य स्थाने सकारादेशः भवति ।
उदा :
रामः + च = रामम् + च = रामश्च
मदनः + छात्रः + मदनस् + छात्रः = मदनश्छात्रः
हरिः + शेते = हरिस् + शेते = हरिश्शेते
कविः + टीकते = कविस् + टीकते = कविष्टीकते
धनुः + ठमारः = धनुस् + ठमारः = धनुष्ठमरः
रामः + षठः = रामस् + षष्ठः = रामष्षष्ठः

व्यञ्जनसन्धिः

एकस्य व्यञ्जनवर्णस्य व्यञ्जनान्तरस्य योगे व्यत्ययो भवति । स च व्यत्ययः व्यञ्जनसन्धिरिति अभिधीयते ।
उदा :
वाक् + जालम् = वाग्जालम् (अयं जश्त्वसन्धिः)

१. श्चुत्वसन्धिः- सकारस्य शकारचवर्गाभ्यां यदा योगः भवति तदा तस्य (सकारस्य) स्थाने शकारः, तथैव तवर्गस्य शकारचवर्गाभ्यां यदा योगः भवति तदा तस्य (तवर्गस्य) स्थाने चवर्गः च क्रमेण आदेशः भवति ।
उदा :
रामस् + शेते = रामश्शेते
हरिस + च = हरिश्च
तत् + चित्रम् = तच्चित्रम्
गुणिन् + जयः = गुणिञ्जयः
सूत्रम् – स्तोः श्चुना श्चुः ।
सूत्रार्थः – सकारतवर्गयोः शकारचवर्गाभ्यां योगे शकारचवर्गौ स्तः ।

२. ष्टुत्वसन्धिः– सकारस्य षकारटवर्गाभ्यां यदा योगः भवति तदा तस्य (सकारस्य) स्थाने षकारः, तथैव तवर्गस्य षकारटवर्गाभ्यां यदा योगः भवति तदा तस्य (तवर्गस्य) स्थाने टवर्गः च क्रमेण आदेशः भवति ।
उदा :
रामस् + षष्ठः = रामष्षष्ठः
कविस् + टीकते = कविष्टीकते
तत् + टीका = तट्टीका
धनुस् + ठमारः = धनुष्ठमारः
चक्रिन् + ढौकसे = चक्रिण्ढौकसे
सूत्रम् – ष्टुना ष्टुः ।
सूत्रार्थः – स्तोः ष्टुना योगे ष्टुः स्यात् ।

३. जश्त्वसन्धिः– पदान्ते स्थितेभ्यः ञ, म, ङ, ण, न एतान् वर्जयित्वा अवशिष्टेभ्यः वर्गीयव्यञ्जनेभ्यः यदा स्वरः मृदुव्यञ्जनं परं भवति तदा तेषां (वर्गीयव्यञ्जनानां) स्थाने तत्तद्वर्गाणां तृतीयः व्यञ्जनवर्णः आदेशः भवति । यदा पदान्ते स्थितात् षकारात् परः स्वरः मृदुव्यञ्जनं वा भवति तदा षकारस्य स्थाने डकारः आदेशः भवति ।
उदा :

४. अनुनासिकसन्धिः– यदा पदान्ते स्थितेभ्यः वर्गीयव्यञ्जनेभ्यः अनुनासिकव्यञ्जनानि पराणि भवन्ति तदा तेषां (वर्गीयव्यञ्जनानां) स्थाने तत्तद्वर्गीयः पञ्चमः वर्णः (अनुनासिकः) आदेशः भवति ।
उदा :
वाक् + मयम् = वाङ्मयम्
षट् + मयूखाः = षण्मयूखाः
चित् + मयः = चिन्मयः
अप् + मयम् = अम्मयम्
सूत्रम् – झलां जशोऽन्ते
सूत्रार्थः – पदान्ते झलां जशः स्युः ।

५. अनुस्वारसन्धिः – यदा पदान्ते स्थितेभ्यः वर्गीयव्यञ्जनेभ्यः अनुनासिकव्यञ्जनानि पराणि भवन्ति तदा तेषां (वर्गीयव्यञ्जनानां) स्थाने तत्तद्वर्गीयः पञ्चमः वर्णः (अनुनासिकः) आदेशः भवति
उदा :
रामम् + वन्दे = रामं वन्दे
सूत्रम् – यरोऽनुनासिकेऽनुनासिको वा ।
सूत्रार्थः – यरः पदान्तस्य अनुनासिके परे अनुनासिको वा स्यात् ।

६. परसवर्णसन्धिः– यदा अनुस्वारात् वर्गीयव्यञ्जनानि पराणि भवन्ति, तदा तस्य (अनुस्वारस्य) स्थाने तत्तद्वर्गस्य पञ्चमः (अनुनासिकवर्णः) आदेशः भवति ।
उदा :
त्वं + करोषि = त्वङ्करोषि
अं + डः = अण्डः
कं + पः = कम्पः
अं + जनम् = अज्ञनम्
इं + धनम् = इन्धनम्
सं + ततिः = सन्ततिः
सूत्रम् – अनुस्वारस्य ययि परसवर्णः ।
सूत्रार्थः – अनुस्वारस्य ययि परे परसवर्णः आदेशः स्यात् ।

यदा तवर्गीयव्यञ्जनात् लकारः परः भवति तदा तवर्गीयव्यञ्जनस्य स्थाने लकारः आदेशः भवति ।
उदा :
तत् + लयः = तल्लयः
विद्वान् + लिखति – विद्वाल्लिखति
सूत्रम् – तोर्लि ।
सूत्रार्थः – तवर्गस्य लकारे परे परसवर्णः स्यात् ।

७. छत्वसन्धिः – पदान्ते स्थितात् तत्तद्वर्गीयप्रथव्यञ्जनात् परस्य शकारस्य स्थाने छकारः आदेशः विकल्पेन भवति यदि शकारात् पेरे स्वराः य, र, ल, व, म, न इत्येते वर्णाः भवन्ति ।
उदा :
तद् + शिवः = तज् + शिवः = श्चित्वसन्धिः, ततः चर्त्वम्
तज् + शिवः = तच्छिवः = छत्वसन्धिः
तद् + श्लोकः = तच्छ्लोकः
उत् + श्वासः = उच्छ्वासः
सूत्रम् – शश्छोऽटि ।
सूत्रार्थः – पदान्तात् झयः परस्य शस्य छो वा स्यादटि ।

८. ङमुडागमसन्धिः– यदा ह्रस्वात् परे ङ्, ण्, न् इत्येते वर्णाः भवन्ति ते (ङ्, ण्, न् इत्येते वर्णाः) च पदान्ते भवन्ति, तेभ्यश्च (ङ्, ण्, न् इत्येते वर्णेभ्यः) यदि स्वरः परो भवति तदा ङ्, ण्, न् इत्येतेभ्यः परे ङ्, ण्, न् इत्येते वर्णाः क्रमेण आगमाः भवन्ति ।
उदा :
प्रत्यङ् + आत्मा = प्रत्यङ्ङात्मा
सुगण् + ईशः = सुगण्णीशः
सन् + अच्युतः = सन्नच्युतः
भगवन् + इतः = भगवन्नितः
सूत्रम् – ङमो ह्रस्वादचि ङमुण्णित्यम्
सूत्रार्थः – ह्रस्वात्परो यो ङम् तदन्तं यत्पदं तस्मात्परस्याचो नित्यं ङमुडागमः स्यात् ।

९. सत्वसन्धिः – यदा पदान्तात् नकरात् च, छ वर्णाः परे भवन्ति तदा नकारस्य स्थाने शकारः, शकारात् पूर्वस्य स्वरस्य स्थाने अनुस्वारश्च भवति ।यदा पदान्तात् नकरात् ट, ठ वर्णाः परे भवन्ति तदा नकारस्य स्थाने षकारः, षकारात् पूर्वस्य स्वरस्य स्थाने अनुस्वारश्च भवति ।यदा पदान्तात् नकरात् त, थ वर्णाः परे भवन्ति तदा नकारस्य स्थाने सकारः, सकारात् पूर्वस्य स्वरस्य स्थाने अनुस्वारश्च भवति ।
उदा :
तान् + च = तांश्च
एतान् + छात्रान् = एतांश्छात्रान्
पाठान् + टीकते = पाठांष्टीकते
तान् + ठमारान् = तांष्ठमारान्
बालान् + तदा = बालांस्तदा
सूत्रम् – नश्छव्यप्रशान् ।
सूत्रार्थः – अम्परे छवि नकारान्तस्य पदस्य रुः स्यात्, न तु प्रशान्शब्दस्य ।

१०. पूर्वसवर्णसन्धिः– अनुनासिकवर्णान् वर्जयित्वा अवशिष्टेभ्यः वर्गीयव्यञ्जनेभ्यः परस्य हकारस्य स्थाने पूर्वसवर्णः (तत्तद्वर्गचतुर्थगणः) आदेशः भवति ।
उदा :
वाक् + हरति = वाग्घरति
षट् + हयाः = षढ्ढयाः
तत् + हितम् = तद्धितम्
अप् + हविः = अब्भविः
सूत्रम् – झयो होन्यतरस्याम् ।
सूत्रार्थः – झयः परस्य हस्य पूर्वसवर्णो वा स्यात् ।


१. विसर्गसन्धिः

ವಿಸರ್ಗಕ್ಕೆ ಸ್ವರವಾಗಲಿ ಮೃದುವ್ಯಂಜನವಾಗಲಿ ಪರವಾದರೆ ವಿಸರ್ಗವು ರೂಪಾಂತರವನ್ನು ಪಡೆಯುತ್ತದೆ. ಇದಕ್ಕೆ ವಿಸರ್ಗಸಂಧಿಯೆಂದು ಹೆಸರು.
ಈ ರೂಪಾಂತರವು ನಾಲ್ಕು ವಿಧವಾಗಿದೆ.
१. उकारः
२. रेफः
३. लोपः
४. सकारः

ವ್ಯಂಜನಗಳಲ್ಲಿ ಎರಡು ವಿಧ :
१. कर्कशव्यञ्जनम्
२. मृदुव्यञ्जनम्

ಪ್ರತಿಯೊಂದು ವರ್ಗದ ಮೊದಲ ಎರಡು ಅಕ್ಷರಗಳಿಗೂ, श, ष, स ಗಳಿಗೂ ಕರ್ಕಶವ್ಯಂಜನಗಳೆಂದು ಹೆಸರು.
ಪ್ರತಿಯೊಂದು ವರ್ಗದ ಕಡೆಯ ಮೂರು ಅಕ್ಷರಗಳಿಗೂ, य, र, ल, व, ह ಗಳಿಗೂ ಮೃದುವ್ಯಂಜನಗಳೆಂದು ಹೆಸರು.

ಉಕಾರವಾಗುವ ನಿಯಮ

ह्रस्व अकार ದ ಮುಂದೆ ಇರುವ ವಿಸರ್ಗಕ್ಕೆ ह्रस्व अकार ವಾಗಲಿ, मृदुव्यञ्जन ವಾಗಲಿ ಪರವಾದರೆ ವಿಸರ್ಗವು उकार ವಾಗುತ್ತದೆ.
ಉದಾ:
राम + अपि = राम + उ + अपि = रामो + अपि –
ಗುಣಸಂಧಿ रामोऽपि – ಪೂರ್ವರೂಪಸಂಧಿ

ವಿ. ಸೂ. – ರೇಫಾಂತವಾದ ಅವ್ಯಯಗಳ ವಿಸರ್ಗವು ಉಕಾರವಾಗುವುದಿಲ್ಲ. ಮೂಲವಾದ ರೇಫವೇ ಆಗಿರುತ್ತದೆ.
ಉದಾ:
अन्तः + गतः = अन्तर्गतः
पुनः + अयम् = पुनरयम्
स्वः + लोकः = स्वर्लोकः
प्रातः + नमामि = प्रातर्नमामि

ವಿ. ಸೂ. – सः, एषः ಇವುಗಳ ವಿಸರ್ಗಕ್ಕೆ ಮೃದುವ್ಯಂಜನ ಪರವಾದರೆ उ ಕಾರ ಬರುವುದಿಲ್ಲ. ವಿಸರ್ಗವು ಲೋಪವಾಗುತ್ತದೆ.
ಉದಾ:
सः + गतः = स गतः
एषः + याति = एष याति

रेफ ವಾಗುವ ನಿಯಮ

अ आ ಕಾರಗಳನ್ನು ಬಿಟ್ಟು ಉಳಿದಸ್ವರದ ಮುಂದೆ ಇರುವ ವಿಸರ್ಗಕ್ಕೆ ಸ್ವರವಾಗಲಿ ಮೃದುವ್ಯಂಜನವಾಗಲಿ ಪರವಾದರೆ ವಿಸರ್ಗವು रेफ ವಾಗುತ್ತದೆ.
ಉದಾ:

लोप ವಾಗುವ ನಿಯಮ

१. ಹ್ರಸ್ವ अ ಕಾರದ ಮುಂದೆ ಇರುವ ವಿಸರ್ಗಕ್ಕೆ ಹ್ರಸ್ವ अ ಕಾರ ಬಿಟ್ಟು ಉಳಿದ ಸ್ವರವು ಪರವಾದರೆ ವಿಸರ್ಗವು ಲೋಪವಾಗುತ್ತದೆ.
ಉದಾ:
बालः + इति = बाल इति

२. आ ಕಾರದ ಮುಂದೆ ಇರುವ ವಿಸರ್ಗಕ್ಕೆ ಸ್ವರವಾಗಲಿ ಮೃದುವ್ಯಂಜನವಾಗಲಿ ಪರವಾದರೆ ವಿಸರ್ಗವು ಲೋಪವಾಗುತ್ತದೆ.
ಉದಾ:
ताः + गच्छन्ति = ता गच्छन्ति
बालकाः + अद्य = बालका अद्य

३. सः ಮತ್ತು एषः ಎಂಬ ಪದಗಳ ವಿಸರ್ಗಕ್ಕೆ ಹ್ರಸ್ವ ಅಕಾರವನ್ನು ಬಿಟ್ಟು ಉಳಿದ ಯಾವ ಅಕ್ಷರವು ಪರವಾದರೂ ವಿಸರ್ಗವು ಲೋಪವಾಗುತ್ತದೆ.
ಉದಾ:
सः + एवम् = स एवम्
एषः + गतः = एष गतः
ವಿಸರ್ಗವು ಲೋಪವಾದ ಮೇಲೆ ಸ್ವರಸಂಧಿಯನ್ನು ಮಾಡಕೂಡದು.

सकार ವಾಗುವ ನಿಯಮ

ವಿಸರ್ಗಕ್ಕೆ क, ख, प, फ ಗಳನ್ನು ಬಿಟ್ಟು ಉಳಿದ ಕರ್ಕಶವ್ಯಂಜನಗಳು ಪರವಾದರೆ ವಿಸರ್ಗವು ಸಕಾರವಾಗುತ್ತದೆ.
ಉದಾ: गौः + तत्र = गौस्तत्र
बालः + थकारम् + बालस्थकारम्
मुनिः + सः = मुनिस्सह

ಕರ್ಕಶವ್ಯಂಜನಗಳಲ್ಲಿ च, छ, श ಗಳು ಪರವಾದರೆ स ಕಾರವು श ಕಾರವಾಗುತ್ತದೆ. ट, ठ, ष ಗಳು ಪರವಾದರೆ स ಕಾರವು ष ಕಾರವಾಗುತ್ತದೆ.
ಉದಾ:
रामः + च = रामम् + च = रामश्च
मदनः + छात्रः + मदनस् + छात्रः = मदनश्छात्रः
हरिः + शेते = हरिस् + शेते = हरिश्शेते
कविः + टीकते = कविस् + टीकते = कविष्टीकते
धनुः + ठमारः = धनुस् + ठमारः = धनुष्ठमरः
रामः + षठः = रामस् + षष्ठः = रामष्षष्ठः

व्यञ्जनसन्धिः

 

ಒಂದು ವ್ಯಂಜನದ ಜೊತೆ ಮತ್ತೊಂದು ವ್ಯಂಜನವು ಸೇರಿದಾಗ ವ್ಯತ್ಯಾಸವಾಗುತ್ತದೆ. ಅದಕ್ಕೆ ವ್ಯಂಜನಸಂಧಿಯೆಂದು ಹೆಸರು.
ಉದಾ:
वाक् + जालम् = वाग्जालम् (ಇದು ಜಸ್ತ್ವಸಂಧಿ)

१. श्चुत्वसन्धिः– ಸ ಕಾರ ತ ವರ್ಗಗಳಿಗೆ ಶ ಕಾರ ಚ ವರ್ಗಗಳ ಸಂಬಂಧವಿದ್ದಾಗ ಸ ಕಾರಕ್ಕೆ ಶ ಕಾರವೂ ತ ವರ್ಗಕ್ಕೆ ಚ ವರ್ಗವೂ ಆದೇಶವಾಗಿ ಬರುತ್ತದೆ.
ಉದಾ:
रामस् + शेते = रामश्शेते
हरिस + च = हरिश्च
तत् + चित्रम् = तच्चित्रम्
गुणिन् + जयः = गुणिञ्जयः

२. ष्टुत्वसन्धिः– ಸ ಕಾರ ತ ವರ್ಗಗಳಿಗೆ ಷ ಕಾರ ಟ ವರ್ಗಗಳ ಸಂಬಂಧವಿದ್ದಾಗ ಸ ಕಾರಕ್ಕೆ ಷ ಕಾರವೂ, ತ ವರ್ಗಕ್ಕೆ ಟ ವರ್ಗವೂ ಆದೇಶವಾಗಿ ಬರುತ್ತದೆ.
ಉದಾ:
रामस् + षष्ठः = रामष्षष्ठः
कविस् + टीकते = कविष्टीकते
तत् + टीका = तट्टीका
धनुस् + ठमारः = धनुष्ठमारः
चक्रिन् + ढौकसे = चक्रिण्ढौकसे

३. जश्त्वसन्धिः– ಒಂದು ಪದದ ಕೊನೆಯಲ್ಲಿರುವ ವರ್ಗೀಯ ವ್ಯಂಜನಕ್ಕೆ ಸ್ವರವಾಗಲಿ, ಮೃದುವ್ಯಂಜನವಾಗಲಿ ಪರವಾದರೆ ಆಯಾ ವರ್ಗದ ಮೂರನೆಯ ಅಕ್ಷರವು ಆದೇಶವಾಗಿ ಬರುತ್ತದೆ.
ಉದಾ:

४. अनुनासिकसन्धिः– ವರ್ಗದ ಮೊದಲನೆಯ ಅಕ್ಷರಕ್ಕೆ ಅನುನಾಸಿಕವು ಪರವಾದರೆ ಆಯಾ ವರ್ಗದ ಅನುನಾಸಿಕವು ಆದೇಶವಾಗಿ ಬರುತ್ತದೆ.
ಉದಾ:
वाक् + मयम् = वाङ्मयम्
षट् + मयूखाः = षण्मयूखाः
चित् + मयः = चिन्मयः
अप् + मयम् = अम्मयम्

५. अनुस्वारसन्धिः
ಉದಾ:
रामम् + वन्दे = रामं वन्दे

६. परसवर्णसन्धिः– ಅನುಸ್ವಾರಕ್ಕೆ श, ष, स, ह ಬಿಟ್ಟು ಉಳಿದ ವ್ಯಂಜನವು ಪರವಾದರೆ ಆಯಾ ವರ್ಗದ ಅನುನಾಸಿಕವು ಅನುಸ್ವಾರಕ್ಕೆ ಆದೇಶವಾಗಿ ಬರುತ್ತದೆ.
ಉದಾ:
त्वं + करोषि = त्वङ्करोषि
अं + डः = अण्डः
कं + पः = कम्पः
अं + जनम् = अज्ञनम्
इं + धनम् = इन्धनम्
सं + ततिः = सन्ततिः
ಪದಾಂತದಲ್ಲಿರುವ ತ ವರ್ಗಕ್ಕೆ ಲ ಕಾರವು ಪರವಾದರೆ ಆ ತ ವರ್ಗಕ್ಕೆ ಅನುರೂಪವಾದ ಲ ಕಾರವು ಬರುತ್ತದೆ.
ಉದಾ:
तत् + लयः = तल्लयः
विद्वान् + लिखति – विद्वाल्लिखति

७. छत्वसन्धिः– ಪ್ರತಿ ವರ್ಗದ ಮೊದಲ ನಾಲ್ಕು ಅಕ್ಷರಗಳ ಮುಂದೆ ಇರುವ ಶ ಕಾರಕ್ಕೆ ह, य, व, र, ल ಗಳ ಪೈಕಿ ಯಾವುದಿದ್ದರೂ ಶ ಕಾರವು ಛ ಕಾರವಾಗುತ್ತದೆ.
ಉದಾ:
तद् + शिवः = तज् + शिवः = ಶ್ಚುತ್ವಸಂಧಿ, ಚರ್ತ್ವ ಬಂದು
तज् + शिवः = तच्छिवः = ಛತ್ವಸಂಧಿ
तद् + श्लोकः = तच्छ्लोकः
उत् + श्वासः = उच्छ्वासः

८. ङमुडागमसन्धिः– ಹ್ರಸ್ವ ಸ್ವರದ ಮುಂದೆ ಇರುವ ङ, ण, न ಗಳಿಗೆ ಸ್ವರವು ಪರವಾದರೆ ङ, ण, न ಗಳು ಕ್ರಮವಾಗಿ ಆಗಮವಾಗುತ್ತವೆ.
ಉದಾ:
प्रत्यङ् + आत्मा = प्रत्यङ्ङात्मा
सुगण् + ईशः = सुगण्णीशः
सन् + अच्युतः = सन्नच्युतः
भगवन् + इतः = भगवन्नितः

९. सत्वसन्धिः– ಪದದ ಕೊನೆಯಲ್ಲಿರುವ न ಕಾರಕ್ಕೆ, च, छ ಗಳು ಪರವಾದರೆ न ಕಾರಕ್ಕೆ श ಕಾರವೂ ಅದರ ಪೂರ್ವದಲ್ಲಿ ಅನುಸ್ವಾರವೂ, ट, ठ ಗಳು ಪರವಾದರೆ न ಕಾರಕ್ಕೆ ष ಕಾರವೂ ಅದರ ಪೂರ್ವದಲ್ಲಿ ಅನುಸ್ವಾರವೂ, त, थ ಗಳು ಪರವಾದರೆ न ಕಾರಕ್ಕೆ स ಕಾರವು ಅದರ ಪೂರ್ವದಲ್ಲಿ ಅನುಸ್ವಾರವೂ ಆದೇಶವಾಗಿ ಬರುತ್ತವೆ.
ಉದಾ:
तान् + च = तांश्च
एतान् + छात्रान् = एतांश्छात्रान्
पाठान् + टीकते = पाठांष्टीकते
तान् + ठमारान् = तांष्ठमारान्
बालान् + तदा = बालांस्तदा

१०. पूर्वसवर्णसन्धिः– ಪದದ ಕೊನೆಯಲ್ಲಿರುವ ವರ್ಗದ ಮೊದಲ ಅಕ್ಷರಕ್ಕೆ ಹ ಕಾರವು ಪರವಾದರೆ ಆಯಾ ವರ್ಗದ ನಾಲ್ಕನೇ ಅಕ್ಷರವು ಬರುತ್ತದೆ.
ಉದಾ:
वाक् + हरति = वाग्घरति
षट् + हयाः = षढ्ढयाः
तत् + हितम् = तद्धितम्
अप् + हविः = अब्भविः

ವಿ. ಸೂ.: ವ್ಯಂಜನಾಂತ ಸಾಧಾರಣ ಶಬ್ದಗಳ ವಿಭಕ್ತಿರೂಪಗಳನ್ನು ಕಂಠಪಾಠ ಮಾಡಬೇಕು. ಶಬ್ದಗಳಿಗೆ ಶಬ್ದಚಂದ್ರಿಕಾ ಪುಸ್ತಕವನ್ನು ಓದಿರಿ..

१. विसर्गसन्धिः

If a visarga : is fallowed by a vowel or soft consonent then visarga (chanags) takes the different froms. That is called as ‘visarga sandhi’.
The change of visarga are four types.
१. उकारः
२. रेफः
३. लोपः
४. सकारः

There are two types of consonents.
१. कर्कशव्यञ्जनम्
२. मृदुव्यञ्जनम्

Every row’s first two letters and श, ष, स are considered as ‘Hard consonents’. (कर्कशव्यञ्जनम्)
Every row’s last three letters and य, र, ल, व, ह are considered as ‘soft consonents’. (मृदुव्यञ्जनम्)

Rule of visarga changing into उ

When a visarga before अकार is followed by a vowel or soft consonant then visarga changes into उकार
Example :
राम + अपि = राम + उ + अपि = रामो + अपि – ಗುಣಸಂಧಿ रामोऽपि – ಪೂರ್ವರೂಪಸಂಧಿ

Note: Indeclinable (अव्यय), which ends with रेफ does not change into उकार but it remains as रेफ
Example :
अन्तः + गतः = अन्तर्गतः
पुनः + अयम् = पुनरयम्
स्वः + लोकः = स्वर्लोकः
प्रातः + नमामि = प्रातर्नमामि

Note: when सः and एषः are followed by a soft consonant उ कार does not come on विसर्ग but विसर्ग disappears.
Examples:
सः + गतः = स गतः
एषः + याति = एष याति

Rule of visarga changing into रेफ

When Viagra stays before a vowel except अ or आ and a vowel or consonant is followed then ‘विसर्ग’ changes into रेफ(रकार)
Examples :

Rule for visarga’s disappearance लोप

१. When infront of ह्रस्व अकार except ह्रस्व अकार any other vowel comes then visarga disappears.
Examples:
बालः + इति = बाल इति

२. Infront of आकारs visarga if a vowel or soft consonant comes then visarga disappears.
Examples: ताः + गच्छन्ति = ता गच्छन्ति
बालकाः + अद्य = बालका अद्य

३. Visarga infront of सः and एषः is followed by any letter expect ह्रस्व अकार then visarga disappears.
Examples:
सः + एवम् = स एवम्
एषः + गतः = एष गतः

विसर्गलोपे कृते स्वरसन्धयः न भवन्ति ।

Rule of visarga changing into सकार:

Except क, ख, प, फ any other hard consonant comes before visarga then visarga changes into सकार
Examples:
गौः + तत्र = गौस्तत्र
बालः + थकारम् + बालस्थकारम्
मुनिः + सः = मुनिस्सह

Even in hard consonant (कर्कशव्यञ्जनम्) if visarga is followed by च, छ or श then श कार, ट, ठ or ष then ष कार.
Examples:
रामः + च = रामम् + च = रामश्च
मदनः + छात्रः + मदनस् + छात्रः = मदनश्छात्रः
हरिः + शेते = हरिस् + शेते = हरिश्शेते
कविः + टीकते = कविस् + टीकते = कविष्टीकते
धनुः + ठमारः = धनुस् + ठमारः = धनुष्ठमरः
रामः + षठः = रामस् + षष्ठः = रामष्षष्ठः

व्यञ्जनसन्धिः

When consonant joins with another consent then some changes take place. That is called व्यञ्जनसन्धि
Examples:
वाक् + जालम् = वाग्जालम् (ಇದು ಜಸ್ತ್ವಸಂಧಿ)

१. श्चुत्वसन्धिः- When सकार and त row is followed by शकार or च row then in place of स कार, and त row changes in च row. That is श्चुत्वसन्धि.
Examples:
रामस् + शेते = रामश्शेते
हरिस + च = हरिश्च
तत् + चित्रम् = तच्चित्रम्
गुणिन् + जयः = गुणिञ्जयः

२. ष्टुत्वसन्धिः- When सकार and त row is followed by षकार or ट row then स changes into ष and त row changes into ट row. That is ष्टुत्वसन्धि.
Examples:
रामस् + षष्ठः = रामष्षष्ठः
कविस् + टीकते = कविष्टीकते
तत् + टीका = तट्टीका
धनुस् + ठमारः = धनुष्ठमारः
चक्रिन् + ढौकसे = चक्रिण्ढौकसे

३. जश्त्वसन्धिः- When a divided consonant is followed by a vowel or soft consonant then same row’s third letter comes on first word last letter. That is जश्त्वसन्धि.
Examples:

4. अनुनासिकसन्धिः- When a first letter of the row is followed by an अनुनासिक then first letter of the row changes into same row’s fifth letter (अनुनासिक). That is अनुनासिकसन्धि.
Examples: वाक् + मयम् = वाङ्मयम्
षट् + मयूखाः = षण्मयूखाः
चित् + मयः = चिन्मयः
अप् + मयम् = अम्मयम्

5. अनुस्वारसन्धिः
Examples:
रामम् + वन्दे = रामं वन्दे

6. परसवर्णसन्धिः– When an अनुस्वार is followed by consonant except श, ष, स, ह then अनुस्वार will be replaced by अनुनासिक of same row.
Examples:
त्वं + करोषि = त्वङ्करोषि
अं + डः = अण्डः
कं + पः = कम्पः
अं + जनम् = अज्ञनम्
इं + धनम् = इन्धनम्
सं + ततिः = सन्ततिः
When त rows consonant is followed by लकार then लकार replaces त row.
Examples:
तत् + लयः = तल्लयः
विद्वान् + लिखति – विद्वाल्लिखति

7. छत्वसन्धिः– If every rows first letters are followed by श कार associated with ह, य, व, र, ल then श changes into छ कार.
Examples:
तद् + शिवः = तज् + शिवः = ಶ್ಚುತ್ವಸಂಧಿ, ಚರ್ತ್ವ ಬಂದು
तज् + शिवः = तच्छिवः = ಛತ್ವಸಂಧಿ
तद् + श्लोकः = तच्छ्लोकः
उत् + श्वासः = उच्छ्वासः

8. ङमुडागमसन्धिः– If ङ्, ण्, न् in front of ह्रस्वस्वर are followed by any स्वर then ङ्, ण् and न् doubles respectively.
Examples:
प्रत्यङ् + आत्मा = प्रत्यङ्ङात्मा
सुगण् + ईशः = सुगण्णीशः
सन् + अच्युतः = सन्नच्युतः
भगवन् + इतः = भगवन्नितः

9. सत्वसन्धिः– The consonant न् which comes at the end of first word and are followed then न् changes into श् and अनुस्वार comes before that, if ट, ठ are then न् changes into ष and अनुस्वार comes before that, if त, थ are followed then न् changes into स् and अनुस्वार comes before that.
Examples:
तान् + च = तांश्च
एतान् + छात्रान् = एतांश्छात्रान्
पाठान् + टीकते = पाठांष्टीकते
तान् + ठमारान् = तांष्ठमारान्
बालान् + तदा = बालांस्तदा

10. पूर्वसवर्णसन्धिः– The first letter of the row which comes at the end of the first word is followed by हकार then same row’s fourth letter replaces हकार.
Examples:
वाक् + हरति = वाग्घरति
षट् + हयाः = षढ्ढयाः
तत् + हितम् = तद्धितम्
अप् + हविः = अब्भविः

Skip to toolbar